वांछित मन्त्र चुनें

रेभ॒दत्र॑ ज॒नुषा॒ पूर्वो॒ अङ्गि॑रा॒ ग्रावा॑ण ऊ॒र्ध्वा अ॒भि च॑क्षुरध्व॒रम् । येभि॒र्विहा॑या॒ अभ॑वद्विचक्ष॒णः पाथ॑: सु॒मेकं॒ स्वधि॑ति॒र्वन॑न्वति ॥

अंग्रेज़ी लिप्यंतरण

rebhad atra januṣā pūrvo aṅgirā grāvāṇa ūrdhvā abhi cakṣur adhvaram | yebhir vihāyā abhavad vicakṣaṇaḥ pāthaḥ sumekaṁ svadhitir vananvati ||

पद पाठ

रेभ॑त् । अत्र॑ । ज॒नुषा॑ । पूर्वः॑ । अङ्गि॑राः । ग्रावा॑णः । ऊ॒र्ध्वाः॑ । अ॒भि । च॒क्षुः॒ । अ॒ध्व॒रम् । येभिः॑ । विऽहा॑याः । अभ॑वत् । वि॒ऽच॒क्ष॒णः । पाथः॑ । सु॒ऽमेक॑म् । स्वऽधि॑तिः । वन॑न्ऽवति ॥ १०.९२.१५

ऋग्वेद » मण्डल:10» सूक्त:92» मन्त्र:15 | अष्टक:8» अध्याय:4» वर्ग:25» मन्त्र:5 | मण्डल:10» अनुवाक:8» मन्त्र:15


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (जनुषा पूर्वः-अङ्गिराः) जगत् की जन्मक्रिया से पूर्व वर्तमान अङ्गों जगत्पदार्थों में रममाण परमात्मा (अत्र) इस संसार में (रेभत्) परम ऋषियों को उपदेश देता है (ऊर्ध्वाः-ग्रावाणः) ऊँचे विद्वान् (अध्वरम्-अभिचक्षुः) उस अविनाशी को प्रत्यक्ष देखते हैं (येभिः) जिनके द्वारा प्रशंसित (विचक्षणः) वह सर्वद्रष्टा (विहायाः) महान् (अभवत्) है (स्वधितिः) स्वाधार (सुमेकं पाथः) सुष्ठु प्रकाशमान अथवा शोभन एकरूप मार्ग को या सृष्टिकाल को (वनन्वति) रश्मिवाले सूर्य में प्रेरित करता है ॥१५॥
भावार्थभाषाः - परमात्मा जगत् की उत्पत्ति से पूर्व वर्त्तमान तथा जगत् के पदार्थों में रममाण है, परमऋषियों को वेद का उपदेश देता है, ऊँचे विद्वान् इसका साक्षात् करते हैं, वह सर्वद्रष्टा महान् है तथा उत्तम प्रकाशवाले या सुन्दर एक मार्ग को सृष्टि के समय को सूर्य के आश्रित करता है, सूर्य के द्वारा प्रत्येक गतिमान् का मार्ग प्रशस्त होता है, या सृष्टि के पदार्थों का काल निर्धारित होता है ॥१५॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (जनुषा पूर्वः-अङ्गिराः) जगतो जन्मक्रियया पूर्व एव (अङ्गेषु जगत्पदार्थेषु रममाणः परमात्मा ‘अङ्गिरा अङ्गेषु रममाणः’ [ऋ० ५।८।४ दयानन्दः] (अत्र) संसारे (रेभत्) परमर्षीन् शब्दयति-उपदिशति (ऊर्ध्वाः-ग्रावाणः) उत्कृष्टाः-विद्वांसः ‘विद्वांसो हि ग्रावाणः’ [श० ३।९।३।१४] (अध्वरम्-अभिचक्षुः) तमविनाशिनं चक्षुरभि, प्रत्यक्षमभिपश्यन्ति (येभिः) यैः प्रशंसितः (विचक्षणः-विहायाः-अभवत्) स सर्वद्रष्टा महान् भवति (स्वधितिः-सुमेकं पाथः वनन्वति) स स्वाधारः सुमेकं सुष्ठु प्रकाशमानम् ‘सुमेकः सुष्ठु प्रकाशमानः’ [ऋ० ४।६।३ दयानन्दः] यद्वा स्वेकम् ‘सुमेकः स्वेकः’ [श० १।७।२।२६] मार्गं सृष्टिकालं वा ‘सुमेकः संवत्सरः स्वेको ह वै’ नामैतद् यत्सुमेक इति’ [श० १।७।२।२६] (वनन्वति) रश्मिवति सूर्ये प्रेरयति ‘वज्रं रश्मिनाम’ [निघ० ३।५३।१५] ॥१५॥